|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.85. अध्यायः 085
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति महद्दर्शनसहवासयोर्गवां च प्रभावबोधनाय च्यवनोपाख्यानकथनारम्भः॥ 1 ॥ गङ्गायमुना सङ्गमेऽन्तर्जले निमज्य तपस्यतश्च्यवनस्य दाशैर्जालेन जलचरैः सह कूलप्रापणम्॥ 2 ॥ दाशैः प्रार्थितेन तेन तान्प्रति मत्स्यै सह स्वस्य प्राणजालान्यतरस्मान्मोचनचोदना॥ 3॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
दर्शने कीदृशः स्नेहः संवासे च पितामह।
महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि॥ 13-85-1(84819)
भीष्म उवाच। 13-85-2x(7050)
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते।
नहुषस्य च संवादं महर्षेश्च्यवनस्य च॥ 13-85-2(84820)
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ।
उदवासकृतारम्भो बभूव स महाव्रतः॥ 13-85-3(84821)
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च।
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः॥ 13-85-4(84822)
आदधत्सर्वभूतेषु विस्रम्यं परमं शुभम्।
जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः॥ 13-85-5(84823)
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च।
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह॥ 13-85-6(84824)
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम्।
प्रतिजग्राह शिरसा वातवेगसमं जवे॥ 13-85-7(84825)
गङ्गा च यमुना चैव सरितश्च सरांसि च।
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन्॥ 13-85-8(84826)
अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः।
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ॥ 13-85-9(84827)
जलौकसां ससत्वानां बभूव प्रियदर्शनः।
उपाजिघ्नन्त च तदा मत्स्यास्तं हृष्टमानसाः।
तत्र तस्यासतः कालः समतीतोऽभवन्महान्॥ 13-85-10(84828)
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः।
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते॥ 13-85-11(84829)
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः।
व्यायता बलिनः शूराः सलिलेष्वनुवर्तिनः।
अभ्याययुश्च तं देशं निश्चिता जालकर्म्णि॥ 13-85-12(84830)
जालं ते योजयामासुर्नवसूत्रकृतं दृढम्।
मत्स्योद्धरणमाकर्षस्तदा भरतसत्तम॥ 13-85-13(84831)
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः।
गङ्गायमुनयोर्वारि जालेनावकिरन्ति ते॥ 13-85-14(84832)
जालं सुविततं तेषां नवसूत्रकृतं तथा।
विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम्॥ 13-85-15(84833)
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्।
अवतीर्य ततः सर्वे जालं चकृषिरे तदा॥ 13-85-16(84834)
अभीतरूपाः संहृष्टा अन्योन्यवशवर्तिनः।
बबन्धुस्तत्र मत्स्यांश्च तथाऽन्याञ्जलचारिणः॥ 13-85-17(84835)
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्।
आकर्षयन्महाराज जालेनाथ यदृच्छया॥ 13-85-18(84836)
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्।
लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम्। 13-85-19(84837)
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्।
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि॥ 13-85-20(84838)
परिखेदपरित्रासाज्जालस्याकर्षणेन च।
मत्स्या बभूवुर्व्यापन्नाः स्थलसंस्पर्शनेन च॥ 13-85-21(84839)
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम्।
बभूव कृपयाविष्टो निःश्वसंश्च पुनःपनः॥ 13-85-22(84840)
निषादा ऊचुः। 13-85-23x(7051)
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु।
करवाम प्रिय किं ते तन्नो ब्रूहि महामुने॥ 13-85-23(84841)
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्।
यो मेऽद्य परमः कामस्तं शृणुध्वं मसाहिताः॥ 13-85-24(84842)
प्राणोत्सर्गं विसर्गं वा मत्स्यैर्यास्याम्यहं सह।
संवासान्नोत्सहे त्यक्तुं सलिलेऽध्युपितानहम्॥ 13-85-25(84843)
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः।
सर्वे विवर्णवदना नहुषाय न्यवेदयन्॥ ॥ 13-85-26(84844)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पश्चाशीतितमोऽध्यायः॥ 85 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-85-1 परपीडादर्शने परैः सह संवासे च कीदृशः स्नेह आतृशंस्यं च कर्तव्यम्। गवां माहात्म्यं च ब्रूहीति प्रश्नदूयम्॥ 7-85-8 सरितश्च तथानुगा इति ट.थ.ध.पाठः॥ 7-85-9 ऊर्ध्वस्थितः उपविष्टः॥ 7-85-10 आसतः आसीनस्य॥ 7-85-19 शङ्खानां जलजन्तुविशेषाणां नखानि तैः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|